रामायणसूक्तयः (अपकीर्तिः)
दिखावट
(ग्रन्थाः/सूक्तिग्रन्थाः/रामायणसूक्तयः/अपकीर्तिः इत्यस्मात् पुनर्निर्दिष्टम्)
१. अकीर्तिर्निन्द्यते देवैः कीर्तिर्लोकेषु पूज्यते । (उत्तरकाण्डः ४५/१३)
२. अकीर्तिर्यस्य गीयेत लोके भूतस्य कस्यचित् ।
- पतत्येवाधमाँल्लोकान् यावच्छब्दः प्रकीर्त्यते ॥ (उत्तरकाण्डः ४५/१२)
३. अप्यहं जीवितं जह्यां युष्मान् वा पुरुषर्षभाः ।
- अपवादभयाद् भीतः किं पुनर्जनकात्मजाम् ॥ (उत्तरकाण्डः ४५/१४)
४. कः पुंमास्तु कुले जातः स्त्रियः परगृहोषिताम् ।
- तेजस्वी पुनरादद्यात् सुहृल्लोभेन चेतसा ।। (युद्धकाण्डः ११५/१९)