कूर्माङ्गन्यायः
कूर्मः आवश्यकतानुसारं स्वानि अङ्गानि सङ्कोचयति । अयम् एकः स्वरक्षणोपायः । सामान्यतः कूर्मस्य अङ्गानि बहिः द्र्ष्टुं शक्यन्ते । संकुचितानि च तानि अङ्गानि बहिः न दृश्यन्ते । सर्वेषां पदार्थानां मूलद्रव्यं किमपि भवति तदेव कालान्तरे कार्यद्रव्यरुपेण परिवर्तते । तदा कारणात् कार्यम् उत्पन्नम् इति जनाः भावयन्ति । यदा एकः पदार्थः नष्टः भवति तदा कार्यरुपेण वर्तमानः सः पदार्थः कारणरुपेणा अवस्थितं भवति । वस्तुतः कस्यापि आत्यन्तिकः नाशो न भवति । तथैव कदापि यद् वस्तु विद्यमानमेव नास्ति तत् कथमपि न उत्पद्यते ।
यथा- १. वाचस्पतिमिश्र – सांख्यतत्त्वकौमुदी -९-१८
२. मुण्डकोपनिषद् -३,३. भगवद्गीता -२-६८ ( स्थितप्रज्ञस्य लक्षणेषु) यदा संहरते चायं कूर्मोऽङ्गानीव सर्वशः ।
इन्द्रियाणि इन्द्रियार्थेभ्यः तस्य प्रज्ञा प्रतिष्ठिता ॥ भगवद्गीता २-५८ यः मनुष्यः स्वस्य चक्षुरादीनि इन्द्रियाणि रुपादिविषयेभ्यः आत्मनि प्रत्याहरति तस्य बुद्धिः स्थिरा भवतीति बोधयितुम्